मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४२, ऋक् ३

संहिता

समु॑ वो य॒ज्ञं म॑हय॒न्नमो॑भि॒ः प्र होता॑ म॒न्द्रो रि॑रिच उपा॒के ।
यज॑स्व॒ सु पु॑र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑तिं ववृत्याः ॥

पदपाठः

सम् । ऊं॒ इति॑ । वः॒ । य॒ज्ञम् । म॒ह॒य॒न् । नमः॑ऽभिः । प्र । होता॑ । म॒न्द्रः । रि॒रि॒चे॒ । उ॒पा॒के ।
यज॑स्व । सु । पु॒रु॒ऽअ॒नी॒क॒ । दे॒वान् । आ । य॒ज्ञिया॑म् । अ॒रऽम॑तिम् । व॒वृ॒त्याः॒ ॥

सायणभाष्यम्

हे देवाः वोयुष्माकं यज्ञं नमोभिर्नमस्कारैर्युक्ता इमेस्तोतारोवा यजमानावा संमहयन् सम्यक् पूजयन्ति उइतिपूरकः मन्द्रः स्तुतिशीलः उपाके अस्माकं समीपे स्थितोस्मदीयोहोता प्ररिरिचे अन्येभ्योहोतृभ्यः अतिरिच्यते हे यजमान त्वं देवान् सु सुष्ठु यजस्व हे पुर्वणीक बहुतेजस्विन्नग्ने त्वं यज्ञियां यज्ञार्हां अरमतिं भूमिं आववृत्याः आवर्तय तथाचनिगमान्तरेआनोमहीमरमतिंसजोषाइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः