मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४२, ऋक् ४

संहिता

य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् ।
सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥

पदपाठः

य॒दा । वी॒रस्य॑ । रे॒वतः॑ । दु॒रो॒णे । स्यो॒न॒ऽशीः । अति॑थिः । आ॒ऽचिके॑तत् ।
सुऽप्री॑तः । अ॒ग्निः । सुऽधि॑तः । दमे॑ । आ । सः । वि॒शे । दा॒ति॒ । वार्य॑म् । इय॑त्यै ॥

सायणभाष्यम्

अतिथिः सर्वेषामतिथिभूतोग्निः यदा वीरस्य वीरकस्य स्तोत्राणां प्रेरयितुः रेवतः हविष्मतोयजमानस्य दुरोणे गृहे स्योनशीः सुखेन शयनीयः आचिकेतत् प्रज्ञायते अग्निःदमे यज्ञगृहे सुधितः आकारश्चार्थे सुनिहितश्च सुष्ठु निहितः सन् यदा सुप्रीतोभवति तदा सोग्निः इयत्यै उपगच्छन्त्यै विशे प्रजायै वार्यं वरणीयं धनं दाति ददाति प्रयच्छति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः