मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४२, ऋक् ५

संहिता

इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे॑ य॒शसं॑ कृधी नः ।
आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शन्ता॑ मि॒त्रावरु॑णा यजे॒ह ॥

पदपाठः

इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । म॒रुत्ऽसु॑ । इन्द्रे॑ । य॒शस॑म् । कृ॒धि॒ । नः॒ ।
आ । नक्ता॑ । ब॒र्हिः । स॒द॒ता॒म् । उ॒षसा॑ । उ॒शन्ता॑ । मि॒त्रावरु॑णा । य॒ज॒ । इ॒ह ॥

सायणभाष्यम्

हे अग्ने त्वं नोस्मदीयमिममध्वरं यज्ञं जुषस्व सेवस्व किंच मरुत्सु इन्द्रस्य सखिभूतेषु देवेषु इन्द्रेच यशसं यशोयुक्तं हविर्लक्षणान्नवन्तं नोस्मदीयं यज्ञं हेअग्ने त्वं कृधि कुरु स्थापयेत्यर्थः । तथा नक्ता रात्रिश्च उषसा दिवश्च अहर्निशेइत्यर्थः बर्हिर्बार्हिषि कुशमये आसदतां उपविशतां अपि च हे अग्ने उशन्ता उशन्तौ यज्ञमिच्छन्तौ मित्रावरुणा मित्रावरुणौ देवौ इहास्मिन् यज्ञे यज पूजय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः