मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४३, ऋक् १

संहिता

प्र वो॑ य॒ज्ञेषु॑ देव॒यन्तो॑ अर्च॒न्द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑ ।
येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यन्ति॑ व॒निनो॒ न शाखा॑ः ॥

पदपाठः

प्र । वः॒ । य॒ज्ञेषु॑ । दे॒व॒ऽयन्तः॑ । अ॒र्च॒न् । द्यावा॑ । नमः॑ऽभिः । पृ॒थि॒वी इति॑ । इ॒षध्यै॑ ।
येषा॑म् । ब्रह्मा॑णि । अस॑मानि । विप्रा॑ । विष्व॑क् । वि॒ऽयन्ति॑ । व॒निनः॑ । न । शाखाः॑ ॥

सायणभाष्यम्

देवयन्तो देवान्कामयमानाः विप्राः यज्ञेषुनमोभिः स्तुतिभिर्हविर्भिर्वा वोयुष्मान् इषध्यै अभिप्राप्तुं प्रार्चन् प्रार्चयन्ति प्रकर्षेणस्तुवन्ति द्यावा दिवं पृथिवी भूमिंच प्रस्तुवन्ति येषां विप्राणां मेधाविनां असमानि ब्रह्माणि स्तोत्राणि वनिनोन शाखाः वृक्षस्य शाखाः शाखाइव विष्वक् विश्वतः वियन्ति विशेषेणगच्छन्ति ते विप्राः प्रार्चन्निति पूर्वेण संबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०