मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४३, ऋक् २

संहिता

प्र य॒ज्ञ ए॑तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताची॑ः ।
स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ॥

पदपाठः

प्र । य॒ज्ञः । ए॒तु॒ । हेत्वः॑ । न । सप्तिः॑ । उत् । य॒च्छ॒ध्व॒म् । सऽम॑नसः । घृ॒ताचीः॑ ।
स्तृ॒णी॒त । ब॒र्हिः । अ॒ध्व॒राय॑ । सा॒धु । ऊ॒र्ध्वा । शो॒चींषि॑ । दे॒व॒ऽयूनि॑ । अ॒स्थुः॒ ॥

सायणभाष्यम्

अयमस्मदीयोयज्ञः प्रैतु देवान् प्रतिगच्छतु तत्रदृष्टान्तः-हेत्वोन सप्तिः शीघ्रगामी अश्वोयथा तद्वत् हे ऋत्विजः सर्वे यूयं समनसः सदृशम- नस्काः सन्तः घृताचीः स्रुचः उद्यच्छध्वं हस्ते उद्यम्य धारयत तथा अध्वराय यागं कर्तुं साधुसाधुकं बर्हिः कुशमयं स्तृणीत वेद्यां छा- दयत हे अग्ने देवयूनि देवान् कामयमानानि त्वदीयानि शोचींष्यर्चींषि ऊर्ध्वा ऊर्ध्वमुखानि अस्थुः तिष्ठन्तु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०