मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४३, ऋक् ३

संहिता

आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्रा॒ः सानौ॑ दे॒वासो॑ ब॒र्हिषः॑ सदन्तु ।
आ वि॒श्वाची॑ विद॒थ्या॑मन॒क्त्वग्ने॒ मा नो॑ दे॒वता॑ता॒ मृध॑स्कः ॥

पदपाठः

आ । पु॒त्रासः॑ । न । मा॒तर॑म् । विऽभृ॑त्राः । सानौ॑ । दे॒वासः॑ । ब॒र्हिषः॑ । स॒द॒न्तु॒ ।
आ । वि॒श्वाची॑ । वि॒द॒थ्या॑म् । अ॒न॒क्तु॒ । अग्ने॑ । मा । नः॒ । दे॒वऽता॑ता । मृधः॑ । क॒रिति॑ कः ॥

सायणभाष्यम्

मातरं जननीं विभृत्राः विशेषेणभर्तव्याः पुत्रासोन पुत्राइव तद्वदस्माकं भरणीया देवासोदेवाः बर्हिषः कुशमयस्य वेद्यामास्तीर्णस्य सानौ उन्नते देशे आसदन्तु उपविशन्तु हे अग्ने विदथ्यां यज्ञयोग्यां त्वदीयां ज्वालां विश्वाची विश्वं सर्वं हविरंचति गच्छतीति विश्वाची जुहुः आअनक्तु आसमन्तात्सिंचतु देवताता देवतातौ युद्धे नोस्माकं मृधः हिंसकान् हे अग्ने त्वं माकः माकार्षीः यज्ञवाचकोदेवतातिशब्दः अत्र संग्रामे वर्तते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०