मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४३, ऋक् ५

संहिता

ए॒वा नो॑ अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया॑ व॒यं स॑हसाव॒न्नास्क्रा॑ः ।
रा॒या यु॒जा स॑ध॒मादो॒ अरि॑ष्टा यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒व । नः॒ । अ॒ग्ने॒ । वि॒क्षु । आ । द॒श॒स्य॒ । त्वया॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । आस्क्राः॑ ।
रा॒या । यु॒जा । स॒ध॒ऽमादः॑ । अरि॑ष्टाः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अग्ने एवं स्तुतस्त्वं विक्षु प्रजासु मध्ये नोस्मभ्यं आदशस्य धनं अभिप्रयच्छ हे सहसावन् बलवन्नग्ने त्वया आस्काः आस्कन्नाः वयं युजा नित्ययुक्तेन राया धनेन सधमादः सहमाद्यंतः अरिष्टाः अहिंसिताभवेम अस्मिन् सूक्ते प्रतिपादिताः सर्वे देवा यूयं नोस्मान् कल्याणैः सर्वदा पालयत ॥ ५ ॥

दधिक्रांवइति पंचर्चमेकादशं सूक्तं वसिष्ठस्यार्षं दधिक्राख्यदेवताकं आद्याजगती सातुदधिक्रादिलिंगोक्तदेवताका शिष्टाश्चतस्रस्त्रिष्टुभ: अनुक्रम्यतेहि-दधिक्रांदाधिकं जगत्याद्यालिंगोक्तदेवतेति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०