मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४४, ऋक् १

संहिता

द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे ।
इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑ः ॥

पदपाठः

द॒धि॒ऽक्राम् । वः॒ । प्र॒थ॒मम् । अ॒श्विना॑ । उ॒षस॑म् । अ॒ग्निम् । सम्ऽइ॑द्धम् । भग॑म् । ऊ॒तये॑ । हु॒वे॒ ।
इन्द्र॑म् । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वः॑ ॥

सायणभाष्यम्

हे स्तोतारोवोयुष्माकं ऊतये रक्षणाय प्रथमं दधिक्रां अश्वाभिमानिनीं देवतां हुवे आह्वयामि ततः अश्विना अश्विनौ देवौ उषसमुषो- देवतांच समिद्धं सम्यग्दीप्तमग्निंच भगं एतदाख्यं देवं च आह्वयामि इन्द्रं विष्णुं पूषणं च ब्रह्मणस्पतिं आदित्यान् द्यावापृथिवी अपः उदकदेवताः स्वः सूर्यं इत्येतान् देवानाह्वयामि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११