मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४४, ऋक् २

संहिता

द॒धि॒क्रामु॒ नम॑सा बो॒धय॑न्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्त॑ः ।
इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥

पदपाठः

द॒धि॒ऽक्राम् । ऊं॒ इति॑ । नम॑सा । बो॒धय॑न्तः । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ ।
इळा॑म् । दे॒वीम् । ब॒र्हिषि॑ । सा॒दय॑न्तः । अ॒श्विना॑ । विप्राः॑ । सु॒ऽहवा॑ । हु॒वे॒म॒ ॥

सायणभाष्यम्

दधिक्रां एतन्नामकं अश्वविशेषं देवं नमसा स्तोत्रेण बोधयन्तः प्रज्ञापयन्तः उदीराणाः प्रेरयन्तः यज्ञं यागं उपप्रयन्तः उपक्रममाणा वयं बर्हिषि इळां हवीरूपां देवीं सादयन्तः आस्थापयन्तः सुहवा शोभनाह्वानौ विप्रा विप्रौ मेधाविनौ अश्विना अश्विनौ देवौ हुवेम आह्वयाम उइति पूरणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११