मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४४, ऋक् ३

संहिता

द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् ।
ब्र॒ध्नं मां॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयन्तु ॥

पदपाठः

द॒धि॒ऽक्रावा॑णम् । बु॒बु॒धा॒नः । अ॒ग्निम् । उप॑ । ब्रु॒वे॒ । उ॒षस॑म् । सूर्य॑म् । गाम् ।
ब्र॒ध्नम् । मं॒श्च॒तोः । वरु॑णस्य । ब॒भ्रुम् । ते । विश्वा॑ । अ॒स्मत् । दुः॒ऽइ॒ता । य॒व॒य॒न्तु॒ ॥

सायणभाष्यम्

दधिक्रावाणं अश्वविशेषं बुबुधानः स्तोत्रेण बोधयन्नहं अग्निं देवं उपब्रुवे उपस्तौमि तथा च उषसमुषोदेवतां सूर्यं सर्वस्य प्रेरकं देवं गां भूमिं वाग्देवतां वा एवं भूतान् देवान् अहमुपस्तौमि मंश्चतोः मन्यमानान् स्तुवतोजनान् चेतयते जानातीति यद्वा अभिमन्यमानांश्चात- यते नाशयतीति मंश्चतुः तस्य वरुणस्य ब्रध्नं महान्तं बभ्रुं पिंगलवर्णमश्वं तस्यानयनार्थमहमुपब्रुवे ते देवाः अस्मदस्मत्तः विश्वा विश्वानि सर्वाणि दुरिता दुरितानि पापानि यवयन्तु पृथक्कुर्वन्तु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११