मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४४, ऋक् ४

संहिता

द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् ।
सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥

पदपाठः

द॒धि॒ऽक्रावा॑ । प्र॒थ॒मः । वा॒जी । अर्वा॑ । अग्रे॑ । रथा॑नाम् । भ॒व॒ति॒ । प्र॒ऽजा॒नन् ।
स॒म्ऽवि॒दा॒नः । उ॒षसा॑ । सूर्ये॑ण । आ॒दि॒त्येभिः॑ । वसु॑ऽभिः । अङ्गि॑रःऽभिः ॥

सायणभाष्यम्

प्रथमः सर्वेषामश्वानांमुख्यः वाजी शीघ्रगामी अर्वा गमनशीलः दधिक्रावा अश्वरूपो देवः प्रजानन् रतसंयंजनीयांस्तांस्तानश्वानधिष्ठाय ज्ञातव्यानि सम्यक् जानन् रथानामग्ने प्रमुखोभवति कीदृशोश्वः उषसा उषोदेवतया सूर्येण सर्वस्य प्रेरकेण देवेन आदित्येभिरादित्यै- श्च वसुभिश्च अंगिरोभिर्देवैः सह स्तोतव्यैरृषिभिश्च संविदानः सम्यक् जानन् ऎकमत्यं प्राप्तइत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११