मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४४, ऋक् ५

संहिता

आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे॑ महि॒षा अमू॑राः ॥

पदपाठः

आ । नः॒ । द॒धि॒ऽक्राः । प॒थ्या॑म् । अ॒न॒क्तु॒ । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।
शृ॒णोतु॑ । नः॒ । दैव्य॑म् । शर्धः॑ । अ॒ग्निः । शृ॒ण्वन्तु॑ । विश्वे॑ । म॒हि॒षाः । अमू॑राः ॥

सायणभाष्यम्

दधिक्राः अश्वरूपोदेवः ऋतस्य यज्ञस्य पंथां पंथानं मार्गं अन्वेतवै अनुगन्तुं प्रवृत्तानां नोस्माकं पथ्यां पदवीमानक्तु उदकेनासिंचतु उइतिपूरणः दैव्यं शर्धः देवसंबन्धिबलं ईदृग्रूपोग्निः नोस्मदीयं हवंशृणोतु अमूराः अमूढाः महिषा महान्तः विश्वे सर्वे देवाः अस्मदीयं हवं शृण्वन्तु ॥ ५ ॥

आदेवोयात्विति चतुरृचं द्वादशं सूक्तं वसिष्ठस्यार्षं सबितृदेवताकं त्रैष्टुभं आदेवश्चतुष्कं साबित्रमित्यनुक्रान्तम् । व्यूह्ळेदशरात्रे चतुर्थे- हनि वैश्वदेवशस्त्रे इदंसवित्रनिविद्धानं सूत्र्यतेहिचतुर्थेहन्यादेवोयात्विति । एषा वपानुवाक्या सूत्रितंच-आदेवोयातुसवितासुरत्नः सघानोदेवः सवितासहावेति । अश्वमेधे अनुसवनं तिस्रः सावित्र्यइष्टयः तत्रद्वितीयस्यामिष्टौ याज्येमं सूत्रितंच-यइमाविश्वाजातान्या- देवोयात्विति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११