मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४५, ऋक् १

संहिता

आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वै॑ः ।
हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ॥

पदपाठः

आ । दे॒वः । या॒तु॒ । स॒वि॒ता । सु॒ऽरत्नः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राः । वह॑मानः । अश्वैः॑ ।
हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ । नि॒ऽवे॒शय॑न् । च॒ । प्र॒ऽसु॒वन् । च॒ । भूम॑ ॥

सायणभाष्यम्

सुरत्नः शोभनरत्नोपेतः अन्तरिक्षप्राः स्वकीयेन तेजसा अन्तरिक्षस्य पूरयिता अश्वैः स्वकीयैर्वाहैः वहमानः उह्यमानः सविता सर्वस्य प्रेर- कोदेवो द्योतमानः आयातु आगच्छतु कीदृशः नर्या नर्याणि मनुष्यहितानि पुरूणि बहूनि धनानि हस्ते पाणौ दधानः दातुं धारयन् भूम भूतानि निवेशयञ्च रात्रिषु स्वेस्थाने स्थापयंश्च प्रसुवन् च अहःसु प्रेरयंश्च एवंभूतः सविता देवआयातु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२