मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४५, ऋक् २

संहिता

उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता॑ हिर॒ण्यया॑ दि॒वो अन्ताँ॑ अनष्टाम् ।
नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्याम् ॥

पदपाठः

उत् । अ॒स्य॒ । बा॒हू इति॑ । शि॒थि॒रा । बृ॒हन्ता॑ । हि॒र॒ण्यया॑ । दि॒वः । अन्ता॑न् । अ॒न॒ष्टा॒म् ।
नू॒नम् । सः । अ॒स्य॒ । म॒हि॒मा । प॒नि॒ष्ट॒ । सूरः॑ । चि॒त् । अ॒स्मै॒ । अनु॑ । दा॒त् । अ॒प॒स्याम् ॥

सायणभाष्यम्

शिथिरा शिथिलौ दानार्थं प्रशारितौ बृहन्ता बृहन्तौ महान्तौ हिरण्यया हिरण्ययौ सुवर्णमयौ अस्यसवितुः संबंधिनौ बाहू हस्तौ दिवो- न्तरिक्षस्य अन्तान् पर्यन्तान् उदनष्टां ऊर्ध्वौ सन्तौ व्याप्नुवतां नूनमद्य अस्व ईदृग्रूपस्य सवितुः सतादृशोमहिमा महत्त्वं पनिष्ट अस्माभिः स्तूयते सूरश्चित् सूर्योपि अस्मै सवित्रे अपस्यां कर्मेच्छां अनुदात् अनुददातु ॥ २ ॥ सावित्रेपशौ पुरोडाशस्य हविषोः सघानइतिद्वे अनुवाक्ये सूत्रंपूर्वमुदाहृतं आश्वमेधिकीषु सावित्रेष्टिषु तृतीयस्यामिष्टौ इमे एव याज्यानुवाक्ये सूत्रितंच-सघानोदेवःसवितासहावेति द्वे इति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२