मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४५, ऋक् ३

संहिता

स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि ।
वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ॥

पदपाठः

सः । घ॒ । नः॒ । दे॒वः । स॒वि॒ता । स॒हऽवा॑ । आ । सा॒वि॒ष॒त् । वसु॑ऽपतिः । वसू॑नि ।
वि॒ऽश्रय॑माणः । अ॒मति॑म् । उ॒रू॒चीम् । म॒र्त॒ऽभोज॑नम् । अध॑ । रा॒स॒ते॒ । नः॒ ॥

सायणभाष्यम्

सहावा तेजोन्तराण्यभिभावुकं तेजोयस्य सः वसुपतिर्धनानां पालकः ससवितादेवः नोस्मभ्यं वसूनि धनानि आसाविषत् आसमन्तात् प्रेरयति घेतिपूरणः ससवितादेवः उरूचीं विस्तीर्णगमनां अमतिं रूपं दीप्तिमित्यार्थः विश्रयमाणः निषेवमाणः सन् अध अधुना नोस्मभ्यं मर्तभोजनं मनुष्याणां भोगयोग्यं धनं रासते ददातु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२