मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४६, ऋक् १

संहिता

इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑ ।
अषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥

पदपाठः

इ॒माः । रु॒द्राय॑ । स्थि॒रऽध॑न्वने । गिरः॑ । क्षि॒प्रऽइ॑षवे । दे॒वाय॑ । स्व॒धाऽव्ने॑ ।
अषा॑ळ्हाय । सह॑मानाय । वे॒धसे॑ । ति॒ग्मऽआ॑युधाय । भ॒र॒त॒ । शृ॒णोतु॑ । नः॒ ॥

सायणभाष्यम्

हे अस्मदीयाः स्तोतारोयूयं इमागिरः स्तुतीः रुद्राय एतन्नामकाय देवाय भरत धारयत कीदृशाय स्थिरधन्वने दृढधनुष्काय क्षिप्रेषवे शीघ्रगामिबाणाय स्वधाव्ने अन्नवते अषाह्ळाय केनाप्यनभिभूताय सहमानाय शत्रूणामभिभवित्रे वेधसे विधात्रे तिग्मायुधाय तीक्ष्णा- स्त्राय एवंभूताय रुद्रदेवाय स्तुतीर्भरत सच रुद्रः नोस्मदीयाः स्तुतीः शृणोतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३