मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४६, ऋक् ३

संहिता

या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः ।
स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥

पदपाठः

या । ते॒ । दि॒द्युत् । अव॑ऽसृष्टा । दि॒वः । परि॑ । क्ष्म॒या । चर॑ति । परि॑ । सा । वृ॒ण॒क्तु॒ । नः॒ ।
स॒हस्र॑म् । ते॒ । सु॒ऽअ॒पि॒वा॒त॒ । भे॒ष॒जा । मा । नः॒ । तो॒केषु॑ । तन॑येषु । रि॒रि॒षः॒ ॥

सायणभाष्यम्

हे रुद्र ते वैद्युतात्मनस्तव संबन्धिनीदिवस्परि अन्तरिक्षसकाशादवसृष्टा विमुक्ता या दिद्युत् अशनिरूपा हेतिः क्ष्मया क्षित्या क्षितौ वा चरति वर्तते सा दिद्युत् नोस्मान् परिवृणक्तु परित्यजतु अपिच हे स्वपिवात ते तव सहस्रं बहूनि भेषजा भेषजानि यान्यौषधानिसन्ति तान्यस्मभ्यं प्रयच्छेतिशेषः नोस्माकं तोकेषु पुत्रेषु तनयेषुच मा रिरिषः हिंसां माकृथाः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३