मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४६, ऋक् ४

संहिता

मा नो॑ वधी रुद्र॒ मा परा॑ दा॒ मा ते॑ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ ।
आ नो॑ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

मा । नः॒ । व॒धीः॒ । रु॒द्र॒ । मा । परा॑ । दाः॒ । मा । ते॒ । भू॒म॒ । प्रऽसि॑तौ । ही॒ळि॒तस्य॑ ।
आ । नः॒ । भ॒ज॒ । ब॒र्हिषि॑ । जी॒व॒ऽशं॒से । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे रुद्र त्वं नोस्मान् मावधीः माहिंसीः तथामापरादाः माअत्याक्षीः अपिच हीळितस्य क्रुद्धस्य ते तव प्रसितौ प्रकर्षेणबन्धने वयं च माभूम । किंच जीवशंसे जीवैराशंसनीये बर्हिषि यज्ञे नोस्मान् आभज भागिनः कुरु हे रुद्रप्रमुखादेवाः यूये नोस्मान् कल्याणैः सर्वदा पालयत ॥ ४ ॥

आपोयंवइति चतुरृचं चतुर्दशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकं आपोयमापमित्यनुक्रान्तंच गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३