मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४७, ऋक् ३

संहिता

श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ।
ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥

पदपाठः

श॒तऽप॑वित्राः । स्व॒धया॑ । मद॑न्तीः । दे॒वीः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ ।
ताः । इन्द्र॑स्य । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । सिन्धु॑ऽभ्यः । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥

सायणभाष्यम्

शतपवित्राः शतं बहूनि पवित्राणि पावनानि रूपाणि यासां ताः स्वधया स्वकार्यभूतेनान्नेन मदन्तीर्जनान्मादयन्त्यः देवीर्देव्यः द्योतमा- नाआपः देवानामिन्द्रादीनां पाथः स्थानमपि यन्ति प्रविशन्ति तास्तादृश्यआपः इन्द्रस्य प्रीणनानि व्रतानि यज्ञादीनि कर्माणि नमिनन्ति नहिंसन्ति उत्पादयन्तीत्यर्थः हे अध्वर्यवोयूयं सिन्धुभ्यस्ताभ्योड्भ्यः घृतवत् उपस्तरणाभिघारणलक्षणाज्ययुक्तं हव्यं पुरोडाशादिकं हविर्जुहोत जुहुत ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४