मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४८, ऋक् १

संहिता

ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ ।
आ वो॒ऽर्वाच॒ः क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु ॥

पदपाठः

ऋभु॑क्षणः । वा॒जाः॒ । मा॒दय॑ध्वम् । अ॒स्मे इति॑ । न॒रः॒ । म॒घ॒ऽवा॒नः॒ । सु॒तस्य॑ ।
आ । वः॒ । अ॒र्वाचः॑ । क्रत॑वः । न । या॒ताम् । विऽभ्वः॑ । रथ॑म् । नर्य॑म् । व॒र्त॒य॒न्तु॒ ॥

सायणभाष्यम्

ऋभुक्षाइति ऋभूणां ज्येष्ठस्याख्या वाजइतितु कनिष्ठस्य अत्र ऋभुक्षणोवाजाइति बहुवचनेन ऋभवस्त्रयोगृह्यन्ते हे ऋभुक्षणोवाजा नरोनेतारः मघवानोधनवन्तः एवंभूताहेऋभवः यूयं अस्मे अस्मासु स्थितेन सुतस्याभिषुतेन सोमेन मादयध्वं तृप्ताभवत नेतिसंप्रत्यर्थे इदानीं यातां गच्छतां वोयुष्मदीयाः क्रतवः कर्मणां कर्तारः विभ्वः विभवः समर्थाअश्वाः अर्वाचोर्वांचः अस्मदभिमुखाः सन्तः नर्यं मनु- ष्यहितं रथं युष्मदीयं आवर्तयन्तु आगमयन्तु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५