मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४८, ऋक् ४

संहिता

नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषा॑ः ।
सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नु । दे॒वा॒सः॒ । वरि॑वः । क॒र्त॒न॒ । नः॒ । भू॒त । नः॒ । विश्वे॑ । अव॑से । स॒ऽजोषाः॑ ।
सम् । अ॒स्मे इति॑ । इष॑म् । वस॑वः । द॒दी॒र॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे देवासोदेवाः द्योतमानाऋभवोयूयं नु अद्य नोस्मभ्यं वरिवोधनं कर्तन कुरुत प्रयच्छत तथा विश्वे सर्वे ऋभवोयूयं सजोषाः सहप्रीय- माणाः सन्तः नोस्माकं अवसे रक्षणाय भूत भवत । अपिच वसवः प्रशस्याऋभवः इषमन्नं अस्मे अस्मभ्यं संददीरन् संप्रयच्छेयुः हेऋभ- वोयूयं अस्मान् सर्वदा कल्याणैः रक्षत ॥ ४ ॥

समुद्रज्येष्ठाइति चतुरृचं षोडशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकं तथाचानुक्रान्तं-समुद्रज्येष्ठाआपमिति गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५