मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४९, ऋक् १

संहिता

स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः ।
इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥

पदपाठः

स॒मु॒द्रऽज्ये॑ष्ठाः । स॒लि॒लस्य॑ । मध्या॑त् । पु॒ना॒नाः । य॒न्ति॒ । अनि॑ऽविशमानाः ।
इन्द्रः॑ । या । व॒ज्री । वृ॒ष॒भः । र॒राद॑ । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥

सायणभाष्यम्

समुद्रज्येष्ठाः समुद्रोर्णवः ज्येष्ठः प्रशस्यतमोयासामपां ताः सलिलस्य अन्तरिक्षनामैतत् अन्तरिक्षस्य मध्यात् माध्यमिकात्स्थानात् यन्ति गच्छन्ति कीदृश्यः पुनानाः विश्वं शोधयन्त्यः अनिविशमानाः सर्वदागच्छन्त्यः वज्री वज्रभृत् वृषभः कामानां वर्षितेन्द्रः याः निरुद्धा- आपः रराद लिखति देवीर्देव्यस्ताआपः इहास्मिन्प्रदेशेस्थितं मां अवन्तु रक्षन्तु अभि गच्छन्तु वा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६