मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४९, ऋक् २

संहिता

या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।
स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥

पदपाठः

याः । आपः॑ । दि॒व्याः । उ॒त । वा॒ । स्रव॑न्ति । ख॒नित्रि॑माः । उ॒त । वा॒ । याः । स्व॒य॒म्ऽजाः ।
स॒मु॒द्रऽअ॑र्थाः । याः । शुच॑यः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥

सायणभाष्यम्

याआपः दिव्याः अन्तरिक्षभवाः सन्ति उतवा अपिच याआपः नद्यादिगताः सत्यः स्रवन्ति गच्छन्ति याश्च खनित्रिमाः खननेन निर्वृत्ताः उतवा अपिच याः स्वयंजाः स्वयमेव प्रादुर्भवंत्यः समुद्रएवार्थोगन्तव्योयासां ताः समुद्रार्थाः शुचयोदीप्तियुक्ताः पावकाः शोधयित्र्यश्च भवन्ति ताआपोमामवन्त्विति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६