मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४९, ऋक् ४

संहिता

यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मद॑न्ति ।
वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥

पदपाठः

यासु॑ । राजा॑ । वरु॑णः । यासु॑ । सोमः॑ । विश्वे॑ । दे॒वाः । यासु॑ । ऊर्ज॑म् । मद॑न्ति ।
वै॒श्वा॒न॒रः । यासु॑ । अ॒ग्निः । प्रऽवि॑ष्टः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥

सायणभाष्यम्

अपांराजावरुणः यास्वप्सु वर्तते सोमः यास्वप्सु वर्तते यास्वप्सु स्थिताः विश्वे सर्वे देवाः ऊर्जमन्नं मदन्ति वैश्वानरोग्निः यासुप्रविष्टः ताआपोदेव्यःइहस्थितं मां अवन्तु ॥ ४ ॥

आमां मित्रावरुणेति चतुरृचं सप्तदशं सूक्तं वसिष्ठस्यार्षं चतुर्थ्यतिजगती व्यूहेनशक्वरीवा आदितस्तिस्रोजगत्यः प्रथमा मैत्रावरुणी द्वितीयाग्नेयी तृतीयावैश्वदेवी चतुर्थी गंगादिनदीदेवताका तथाचानुक्रमणिका-आमांमैत्रावरुण्याग्नेयी वैश्वदेवी नदीस्तुतिर्जागतमंत्या- तिजगती शक्वरीवेति । अस्यसूक्तस्य प्रत्यृचं विषादिहरणे विनियोगोलिंगादवगन्तव्यः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६