मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५०, ऋक् २

संहिता

यद्वि॒जाम॒न्परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् ।
अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑ः ॥

पदपाठः

यत् । वि॒ऽजाम॑न् । परु॑षि । वन्द॑नम् । भुव॑त् । अ॒ष्ठी॒वन्तौ॑ । परि॑ । कु॒ल्फौ । च॒ । देह॑त् ।
अ॒ग्निः । तत् । शोच॑न् । अप॑ । बा॒ध॒ता॒म् । इ॒तः । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥

सायणभाष्यम्

वन्दनं एतत्संज्ञकं यद्विषं विजामन् विविधजन्मनि परुषि वृक्षादीनां पर्वणि भुवत् उद्भवेत् यच्चविषं अष्ठीवन्तौ जानुनी कुल्फौ गुप्तौच परिदेहत् दिहउपचये उपचितंकुर्यात् अग्निर्देवः शोचन् दीप्यमानः सन् इतोस्माज्जनात् तद्विषं अपबाधतां अपहन्तु शिष्टं व्याख्यातं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७