मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५०, ऋक् ३

संहिता

यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्य॒ः परि॒ जाय॑ते वि॒षम् ।
विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑ः ॥

पदपाठः

यत् । श॒ल्म॒लौ । भव॑ति । यत् । न॒दीषु॑ । यत् । ओष॑धीभ्यः । परि॑ । जाय॑ते । वि॒षम् ।
विश्वे॑ । दे॒वाः । निः । इ॒तः । तत् । सु॒व॒न्तु॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥

सायणभाष्यम्

यद्विषं शल्मलौ एतत्संज्ञके वृक्षेभवति तद्विषं नदीषु तत्रस्थासु अप्सु प्रादुर्भवति परीति पंचम्यर्थानुवादी ओषधीभ्यः सकाशाद्यद्विषं जायते उत्पद्यते विश्वे सर्वे देवाः तद्विषं इतोस्माज्जनाद्देशाद्वा निः सुवन्तु निःशेषेण प्रेरयन्तु मामामितिशिष्टं व्याख्यातं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७