मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५०, ऋक् ४

संहिता

याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः ।
ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वन्तु ॥

पदपाठः

याः । प्र॒ऽवतः॑ । नि॒ऽवतः॑ । उ॒त्ऽवतः॑ । उ॒द॒न्ऽवतीः॑ । अ॒नु॒द॒काः । च॒ । याः ।
ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । शि॒वाः । दे॒वीः । अ॒शि॒प॒दाः । भ॒व॒न्तु॒ । सर्वाः॑ । न॒द्यः॑ । अ॒शि॒मि॒दाः । भ॒व॒न्तु॒ ॥

सायणभाष्यम्

यानद्यः प्रवतः प्रवणदेशे गच्छंत्यः या निवतः निम्नदेशे गच्छन्त्यः या उद्वतः उन्नतदेशेगच्छन्त्यः उदन्वतीः उदकवत्यः अनुदकाश्च उप- करहिताश्च यानद्यः यान्ति पयसोदकेन पिन्वमानाः विश्वमाप्याययन्त्यः देवीर्देव्योद्योतमानाः तास्तादृश्योनद्यः अस्मभ्यं अशिपदाः शिपदंनाम रोगविशेषः तदकुर्वत्यः सत्यः शिवाः कल्याण्योभवन्तु अपिच सर्वास्तानद्यः अशिमिदाः शिमिर्वधकर्मा अहिंसाप्रदाभवन्तु ॥ ४ ॥

आदित्यानामिति तृचमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभंआदित्यदेवताकं अनुक्रम्यतेचाअदित्यानां तृचमादित्यं त्विति । गतः सूक्त- विनियोगः । आदित्यदेवताकेपशौ आदित्यानामवसे ति वपायाअनुवाक्या सूत्रितंच-आदित्यानामवसानूतनेनेमागिरआदित्येभ्यइति आदित्यग्रहस्यैषानुवाक्या सूत्रितं च-आदित्यानामवसानूतनेन होतायक्षदादित्यानिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७