मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५१, ऋक् ३

संहिता

आ॒दि॒त्या विश्वे॑ म॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे॑ ।
इन्द्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

आ॒दि॒त्याः । विश्वे॑ । म॒रुतः॑ । च॒ । विश्वे॑ । दे॒वाः । च॒ । विश्वे॑ । ऋ॒भवः॑ । च॒ । विश्वे॑ ।
इन्द्रः॑ । अ॒ग्निः । अ॒श्विना॑ । तु॒स्तु॒वा॒नाः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

आदित्याः अदितेः पुत्राः विश्वे सर्वे द्वादशसंख्याकार्काः विश्वे मरुतश्च सर्वे एकोनपंचाशत् संख्योपेताश्च विश्वेदेवाश्च विशे ऋभवश्च इन्द्रोग्निः अश्विना अश्विनौ एतत् संज्ञकाः एवंभूतायेदेवाः तुष्टुवानाः अस्माभिः स्तुताः बभूवुः सर्वे ते देवाः यूयं सदा सर्वदा नोस्मान् स्वस्तिभिः कल्याणैः पात रक्षत ॥ ३ ॥

आदित्यासोअदितयइति तृचात्मकमेकोनविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमादित्यदेवताकं आदित्यासइत्यनुक्रमणिका । गतोवि- नियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८