मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५२, ऋक् १

संहिता

आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा ।
सने॑म मित्रावरुणा॒ सन॑न्तो॒ भवे॑म द्यावापृथिवी॒ भव॑न्तः ॥

पदपाठः

आ॒दि॒त्यासः॑ । अदि॑तयः । स्या॒म॒ । पूः । दे॒व॒ऽत्रा । व॒स॒वः॒ । म॒र्त्य॒ऽत्रा ।
सने॑म । मि॒त्रा॒व॒रु॒णा॒ । सन॑न्तः । भवे॑म । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भव॑न्तः ॥

सायणभाष्यम्

हे आदित्यासः आदित्यादेवाः व्यत्ययेनाद्युदात्तत्वाभावः यद्वा आदित्यानामिमेआदित्याः तस्येदमित्यर्थे प्राग्दीव्यतीयोण्यप्रत्ययः आदि- त्यानां शेषभूतावयं अदितयः अखंडनीयाः स्याम भवेम । देवत्रा देवेषु वसवोवासकादेवाः युष्मदीयं पूः पालनं मर्त्यत्रा मनुष्येष्वस्मासु भवतु हे मित्रावरुणा मित्रावरुणौ सनंतः युवां संभजन्तोवयं सनेम युवाभ्यां दत्तं धनं संभजेमहि हे द्यावापृथिवी द्यावापृथिव्यौ युवयोः प्रसादात् वयं भवन्तो भवेम भूतिमंतः स्याम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९