मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५२, ऋक् २

संहिता

मि॒त्रस्तन्नो॒ वरु॑णो मामहन्त॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः ।
मा वो॑ भुजेमा॒न्यजा॑त॒मेनो॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ॥

पदपाठः

मि॒त्रः । तत् । नः॒ । वरु॑णः । म॒म॒ह॒न्त॒ । शर्म॑ । तो॒काय॑ । तन॑याय । गो॒पाः ।
मा । वः॒ । भु॒जे॒म॒ । अ॒न्यऽजा॑तम् । एनः॑ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे ॥

सायणभाष्यम्

मित्रोवरुणः अहर्निशाभिमानिनौ देवौ एतदाद्याः सर्वे आदित्याः नोस्मभ्यं तत् प्रसिद्धं शर्म सुखं ममहन्त मंहतिर्दानकर्मा ददतु गोपाः विश्वस्य रक्षकास्ते देवास्तोकायास्मदीयाय पुत्राय तनयाय तत्पुत्रायच शर्म प्रयच्छन्तु अथप्रत्यक्षस्तुतिः हे देवाः वोयुष्मदीयावयं अ- न्यजातमन्येनोत्पादितं एनः पापमाभुजेम माभुक्तवन्तः स्याम । हे वसवो वासकादेवाः यद्येन युष्मदप्रियेण कर्मणा चयध्वे यूयमस्मा- न्नाशयत तत्तादृशं कर्म वयं माकर्म माकार्ष्म लुङि करोतेरुत्तमस्य बहुवचनं मंत्रेघसह्वरेत्यादिना च्लेर्लोपः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९