मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५३, ऋक् १

संहिता

प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे ।
ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्त॑ः पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥

पदपाठः

प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । नमः॑ऽभिः । स॒ऽबाधः॑ । ई॒ळे॒ । बृ॒ह॒ती इति॑ । यज॑त्रे॒ इति॑ ।
ते इति॑ । चि॒त् । हि । पूर्वे॑ । क॒वयः॑ । गृ॒णन्तः॑ । पु॒रः । म॒ही इति॑ । द॒धि॒रे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥

सायणभाष्यम्

यजत्रे यजनीये बृहती बृहत्यौ महत्यौ द्यावापृथिवी द्यावापृथिव्यौ यज्ञैर्यागैः नमोभिः स्तोत्रैश्च अहं स्तोता सवाधोवाधासहितः ऋत्वि- जां संबाधयुक्तइत्यर्थः प्र ईळे प्रकर्षेण स्तौमि मही महत्यौ देवपुत्रे देवाः पुत्राययोस्ते ते तव चिद्धि तादृश्यौ खल्वपि द्यावापृथिव्यौ पूर्वे पुरातनाः कवयः गृणन्तः स्तुवन्तः पुरोदधिरे पुरस्तात् स्थापयामासुः ॥ १ ॥ आंग्रायणे द्यावापृथिव्यैककपालस्य प्रपूर्वजइतियाज्या सूत्रितं च-महीद्यौःपृथिवीचनः प्रपूर्वजेपितरानव्यसीभिरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०