प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥
प्र । पू॒र्व॒जे इति॑ पू॒र्व॒ऽजे । पि॒तरा॑ । नव्य॑सीभिः । गीः॒ऽभिः । कृ॒णु॒ध्व॒म् । सद॑ने॒ इति॑ । ऋ॒तस्य॑ ।
आ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । दैव्ये॑न । जने॑न । या॒त॒म् । महि॑ । वा॒म् । वरू॑थम् ॥
हे अस्मदीयाः स्तोतारोयूयं नव्यसीभिर्नवतराभिः गीर्भिः स्तुतिरूपाभिर्वाग्भिः ऋतस्य यज्ञस्य सदने स्थानभूते पूर्वजे पूर्वं प्रजाते पितरा पितरौ विश्वस्य मातापितृभूते द्यावापृथिव्यौ प्रकृणुध्वं पुरस्कुरुत । अथ प्रत्यक्षस्तुतिः हे द्यावापृथिवी द्यावापृथिव्यौ युवां दैव्येन देवसं- बन्धिना जनेन सह नोस्मानभि आयातं आगच्छतं किमर्थमायातमिति उच्यते वां युवयोः वरूथं अस्माभिर्वरणीयं महि महत् यद्धन- मस्तीतिशेषः तद्धनमस्मभ्यं दीयतामित्यर्थः ॥ २ ॥