मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५३, ऋक् ३

संहिता

उ॒तो हि वां॑ रत्न॒धेया॑नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ ।
अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

उ॒तो इति॑ । हि । वा॒म् । र॒त्न॒ऽधेया॑नि । सन्ति॑ । पु॒रूणि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽदासे॑ ।
अ॒स्मे इति॑ । ध॒त्त॒म् । यत् । अस॑त् । अस्कृ॑धोयु । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

उतोहि अपिच खलु हे द्यावापृथिवी द्यावापृथिव्यौ वां युवयोः सुदासे शोभनहविर्दानाय यजमानाय देयानि पुरुणि बहूनि रत्नधेयानि रमणीयानि धनानि सन्ति भवन्ति तेषां मध्ये यद्धनं अस्कृधोयु कृधुकोह्रस्वः अह्रस्वमनल्पं असत् भवेत् तद्धनमस्मै अस्मभ्यं धत्तं प्रयच्छत । हे द्यावापृथिव्यौ यूयं युवां नोस्मान् सर्वदा कल्याणैः पात पालयतं ॥ ३ ॥

वास्तोष्पतेइति तृचात्मकमेकविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वास्तोष्पत्यं तथाचानुक्रम्यते-वास्तोष्पतेवास्तोष्पत्यमिति । स्मार्ते- गृहनिर्माणे वास्तोष्पतइति चतसृभिः प्रत्यृचं जुहुयात् सूत्रितं च-वास्तोष्पतेप्रतिजानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०