मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५४, ऋक् १

संहिता

वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।
यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

पदपाठः

वास्तोः॑ । प॒ते॒ । प्रति॑ । जा॒नी॒हि॒ । अ॒स्मान् । सु॒ऽआ॒वे॒शः । अ॒न॒मी॒वः । भ॒व॒ । नः॒ ।
यत् । त्वा॒ । ईम॑हे । प्रति॑ । तत् । नः॒ । जु॒ष॒स्व॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

सायणभाष्यम्

हे वास्तोष्पते गृहस्यपालयितर्देव त्वं अस्मान् त्वदीयान् स्तोतॄनिति प्रतिजानीहि प्रबुध्यस्व तदनन्तरं नोस्माकं स्वावेशः शोभननिवेशः अनमीवः अरोगकृच्च भव किंच वयं त्वा त्वां यद्धनं ईमहे याचामहे त्वमपि तद्धनं नोस्मभ्यं प्रतिजुषस्व प्रयच्छ अपिच नोस्माकं द्विपदे पुत्रपौत्रादिजनाय शं सुखकरोभव चतुष्पदे अस्मदीयाय गवाश्वादिवर्गायच शं सुखकरोभव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१