मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५४, ऋक् २

संहिता

वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे॑भिरिन्दो ।
अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥

पदपाठः

वास्तोः॑ । प॒ते॒ । प्र॒ऽतर॑णः । नः॒ । ए॒धि॒ । ग॒य॒ऽस्फानः॑ । गोभिः॑ । अश्वे॑भिः । इ॒न्दो॒ इति॑ ।
अ॒जरा॑सः । ते॒ । स॒ख्ये । स्या॒म॒ । पि॒ताऽइ॑व । पु॒त्रान् । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥

सायणभाष्यम्

हे वास्तोष्पते गृहस्यपालयितर्देव त्वं नोस्माकं प्रतरणः प्रवधर्कः गयस्फानः गयस्यास्मदीयस्य धनस्य स्फाययिता प्रवर्धकः एधि भव । हे इन्दो सोमवदाह्लादक ते त्वयासह सख्ये सति वयं गोभिः पशुभिः अश्वेभिरश्वैश्च सहिता अजरासोजरारहिताः स्याम भवेम विनाशरहिताइत्यर्थः । पितेव पुत्रान् यथा पिता पुत्रान् रक्षकत्वेन सेवते तथा त्वमपि नोस्मान् प्रति जुषस्व सेवस्व ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१