मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५५, ऋक् २

संहिता

यद॑र्जुन सारमेय द॒तः पि॑शङ्ग॒ यच्छ॑से ।
वी॑व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे॑षु॒ बप्स॑तो॒ नि षु स्व॑प ॥

पदपाठः

यत् । अ॒र्जु॒न॒ । सा॒र॒मे॒य॒ । द॒तः । पि॒श॒ङ्ग॒ । यच्छ॑से ।
विऽइ॑व । भ्रा॒ज॒न्ते॒ । ऋ॒ष्टयः॑ । उप॑ । स्रक्वे॑षु । बप्स॑तः । नि । सु । स्व॒प॒ ॥

सायणभाष्यम्

हे अर्जुन श्वेत हे सारमेय सरमा नाम देवशुनी तस्याः कुलोद्भव हे पिशंग केषुचिदंगेषु पिंगलवर्ण एवंभूत हे शुनक त्वं दतो दन्तान् यद्यदा यच्छसे विवृणोषि अस्मान् दष्टुमित्यर्थः तदानीं वीव भ्राजन्त ऋष्टयः यथा आयुधानि विशेषेण भासन्ते तथा उपास्मत्समीपे बप्सवः भक्षयतस्तव दन्ता स्रक्वेषु स्रक्वासु भासन्ते । स्रक्वा शब्द ओष्ठप्रदेशविशेषवाचीत्यर्थः तथाभूतस्त्वं इदानीं सु सुष्ठु निस्वप नितरां निद्रां कुरु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२