मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५५, ऋक् ४

संहिता

त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः ।
स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥

पदपाठः

त्वम् । सू॒क॒रस्य॑ । द॒र्दृ॒हि॒ । तव॑ । द॒र्द॒र्तु॒ । सू॒क॒रः ।
स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥

सायणभाष्यम्

हे सारमेय त्वं सूकरस्य वराहस्य द्वितीयार्थेषष्ठी दर्दृहि विदारय सूकरोपि तव दर्दर्तु विदारयतु युवयोर्नित्यवैरित्वात् अस्मान्मादशे- त्यर्थः । स्तोतॄनित्यर्धर्चः पूर्वस्यामृचिव्याख्यातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२