मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५५, ऋक् ६

संहिता

य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ ।
तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥

पदपाठः

यः । आस्ते॑ । यः । च॒ । चर॑ति । यः । च॒ । पश्य॑ति । नः॒ । जनः॑ ।
तेषा॑म् । सम् । ह॒न्मः॒ । अ॒क्षाणि॑ । यथा॑ । इ॒दम् । ह॒र्म्यम् । तथा॑ ॥

सायणभाष्यम्

योजनः आस्ते अस्मिन् प्रदेशे तिष्ठति यश्च चरति गच्छति यश्च जनः नोस्मान् पश्यति एवं भूतानां तेषां जनानां अक्षाणीन्द्रियाणि सं- हन्मः संहनाम संहतिर्निमीलनं निमीलयामेत्यर्थः । इदं प्रत्यक्षेणोपलभ्यमानं हर्म्यं प्रासादादिस्थावरात्मकं वस्तुजातं यथा निश्चलं भवति तथा इमे सर्वे जनाः निश्चलाभवंत्वित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२