मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५५, ऋक् ७

संहिता

स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् ।
तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥

पदपाठः

स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । यः । स॒मु॒द्रात् । उ॒त्ऽआच॑रत् ।
तेन॑ । स॒ह॒स्ये॑न । व॒यम् । नि । जना॑न् । स्वा॒प॒या॒म॒सि॒ ॥

सायणभाष्यम्

सहस्रशृंगः सहस्रकिरणः वृषभः कामानां वर्षिता यः सूर्यः समुद्रादंबुधेः सकाशादुदाचरत् उदागच्छति सहस्येन अभिभवित्रा तेन सूर्येण वयं स्तोतारः जनान् सर्वान् निष्वापयामसि नितरांस्वापयामः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२