मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५५, ऋक् ८

संहिता

प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः ।
स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वा॑ः स्वापयामसि ॥

पदपाठः

प्रो॒ष्ठे॒ऽश॒याः । व॒ह्ये॒ऽश॒याः । नारीः॑ । याः । त॒ल्प॒ऽशीव॑रीः ।
स्रियः॑ । याः । पुण्य॑ऽगन्धाः । ताः । सर्वाः॑ । स्वा॒प॒या॒म॒सि॒ ॥

सायणभाष्यम्

वाः यादृश्यः नारीः नार्यः स्त्रियः प्रोष्ठेशयाः प्रांकणेशयानाः यावह्येशयाः वह्यं वाहनं तस्मिन् शयानाः यास्तल्पशीवरीः तल्पशयाः याः स्त्रियः पुण्यगंधाः मंगल्यगन्धाः तास्तादृशीः सर्वाः स्त्रीः स्वापयामसि वयं निद्रां कारयामः ॥ ८ ॥

अथचतुर्थेनुवाके पंचदशसूक्तानि तत्र कईंव्यक्तेति पंचविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं मरुद्देवताकं आद्याएकादशद्विपदाविंशत्यक्ष- राविराजः शिष्टाश्चतुर्दशत्रिष्टुभः तथाचानुक्रान्तं-कईंपंचाधिका मारुतंहाद्याएकादशद्विपदाइति । दशरात्रे चतुर्थेहनि आग्निमारुतशस्त्रे इदंमारुतनिविद्धानं सूत्र्यतेहि-वैश्वानरस्यसुमतौ कईंव्यक्तानरइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२