मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् २

संहिता

नकि॒र्ह्ये॑षां ज॒नूंषि॒ वेद॒ ते अ॒ङ्ग वि॑द्रे मि॒थो ज॒नित्र॑म् ॥

पदपाठः

नकिः॑ । हि । ए॒षा॒म् । ज॒नूंषि॑ । वेद॑ । ते । अ॒ङ्ग । वि॒द्रे॒ । मि॒थः । ज॒नित्र॑म् ॥

सायणभाष्यम्

एषां मरुतां जनूंषि जन्मानि नकिर्हि वेद कश्चिदपि नखलु जानाति ते तादृशाः मरुतः मिथः परस्परं जनित्रं रुद्रपृश्निभ्यां सकाशात् प्रादुर्भूतं स्वकीयं जन्म अंग विद्रे स्वयमेवविदन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३