मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् ४

संहिता

ए॒तानि॒ धीरो॑ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो॑ म॒ही ज॒भार॑ ॥

पदपाठः

ए॒तानि॑ । धीरः॑ । नि॒ण्या । चि॒के॒त॒ । पृश्निः॑ । यत् । ऊधः॑ । म॒ही । ज॒भार॑ ॥

सायणभाष्यम्

धीरोधीमान् शास्त्रज्ञोजनः निण्या निण्यानि श्वेतवर्णानि एतानि मरुदात्मकानि भूतानि चिकेत जानीयात् किंतु न सर्वे जना जानन्ती- त्यर्थः मही महती पृश्निर्मरुतां जननी यत् यानि मरुदात्मकानि भूतानि ऊधः ऊधन्यन्तरिक्षे स्वकीये जठरे वा जभार बभार एतानि चिकेतेति पूर्वेण संबंधः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३