मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् ५

संहिता

सा विट् सु॒वीरा॑ म॒रुद्भि॑रस्तु स॒नात्सह॑न्ती॒ पुष्य॑न्ती नृ॒म्णम् ॥

पदपाठः

सा । विट् । सु॒ऽवीरा॑ । म॒रुत्ऽभिः॑ । अ॒स्तु॒ । स॒नात् । सह॑न्ती । पुष्य॑न्ती । नृ॒म्णम् ॥

सायणभाष्यम्

सा विट् सा प्रजा मरुतः परिचरति सा प्रजा मरुद्भिः हेतुभिः सनात् चिरात् सहन्ती शत्रूनभिभवन्ती नृम्णं धनं बलं वा पुष्यन्ती लभन्ती सुवीरा शोभनपुत्रयुक्तास्तु भवतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३