मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् ६

संहिता

यामं॒ येष्ठा॑ः शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒ ओजो॑भिरु॒ग्राः ॥

पदपाठः

याम॑म् । येष्ठाः॑ । शु॒भा । शोभि॑ष्ठाः । श्रि॒या । सम्ऽमि॑श्लाः । ओजः॑ऽभिः । उ॒ग्राः ॥

सायणभाष्यम्

मरुतः यामं यातव्यं गंतव्यं प्रदेशं येष्ठाः यातृतमाः अतिशयेन गंतारः शुभाः अलंकारेण शोभिष्ठाः अतिशयेन शोभायुक्ताः श्रिया कांत्या संमिश्लाः संगच्छमाना ओजोभिर्बलैः उग्रा उद्गूर्णाः एवंभूताभवन्तीति शेषः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३