मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् ८

संहिता

शु॒भ्रो व॒ः शुष्म॒ः क्रुध्मी॒ मनां॑सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ॥

पदपाठः

शु॒भ्रः । वः॒ । शुष्मः॑ । क्रुध्मी॑ । मनां॑सि । धुनिः॑ । मुनिः॑ऽइव । शर्ध॑स्य । धृ॒ष्णोः ॥

सायणभाष्यम्

हे मरुतः वोयुष्माकं शुष्मोबलं शुभ्रः सर्वतः शोभमानं किंच वो मनांसि क्रुध्मी संग्रामेषु शत्रुहननार्थं क्रोधनशीलानि धृष्णोर्धर्षणशीलस्य शर्धस्य बलवतोयुष्मदीयस्य गणस्य धुनिः वृक्षादीनां कंपयितुः वेगः मुनिरिव मननान्मुनिः स्तोता सयथा बहुविधं शब्दमुत्पादयति एवं बहुविधशब्दस्योत्पादकइत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३