मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् ९

संहिता

सने॑म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो॑ दुर्म॒तिरि॒ह प्रण॑ङ्नः ॥

पदपाठः

सने॑मि । अ॒स्मत् । यु॒योत॑ । दि॒द्युम् । मा । वः॒ । दुः॒ऽम॒तिः । इ॒ह । प्रण॑क् । नः॒ ॥

सायणभाष्यम्

हे मरुतः सनेमि सनातनं दिद्युं दीप्यमानं ऋष्ट्याख्यं युष्मदीयमायुधं अस्मत् अस्मत्तः सकाशात् युयोत पृथक्वुरुत तथा वः युष्मदीया- दुर्मतिः निग्रहबुद्धिः नोस्मान् इह अस्मिन् लोके मा प्रणक् मा प्राप्नोत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३