मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १०

संहिता

प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ॥

पदपाठः

प्रि॒या । वः॒ । नाम॑ । हु॒वे॒ । तु॒राणा॑म् । आ । यत् । तृ॒पत् । म॒रु॒तः॒ । वा॒व॒शा॒नाः ॥

सायणभाष्यम्

हे मरुतः तुराणां यजमानार्थं त्वरया आगच्छतां वः युष्माकं नाम आहुवे आह्वयामि यत् येन आह्वानेन प्रियाः स्नेहयुक्ताः वावशानाः अस्माकं आह्वानं कृतमिति शब्दायमानाश्च सन्तः तृपत् संतुष्टा भविष्यथ तत् आह्वानमिति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३