मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् ११

संहिता

स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्व१॒॑ः शुम्भ॑मानाः ॥

पदपाठः

सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ । सु॒ऽनि॒ष्काः । उ॒त । स्व॒यम् । त॒न्वः॑ । शुम्भ॑मानाः ॥

सायणभाष्यम्

स्वायुधासः स्वायुधाः शोभनास्त्राः इष्मिणोगन्तारः सुनिष्काः शोभनालंकाराः उतापिच तन्वः स्वकीयानि शरीराणि शुंभमानाः स्वय- मेव शोभयन्तोमरुतः एवंभूताभवंतीत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४