मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १२

संहिता

शुची॑ वो ह॒व्या म॑रुत॒ः शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः ।
ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मान॒ः शुच॑यः पाव॒काः ॥

पदपाठः

शुची॑ । वः॒ । ह॒व्या । म॒रु॒तः॒ । शुची॑नाम् । शुचि॑म् । हि॒नो॒मि॒ । अ॒ध्व॒रम् । शुचि॑ऽभ्यः ।
ऋ॒तेन॑ । स॒त्यम् । ऋ॒त॒ऽसापः॑ । आ॒य॒न् । शुचि॑ऽजन्मानः । शुच॑यः । पा॒व॒काः ॥

सायणभाष्यम्

हे मरुतः शुचीनां शुद्धानां वोयुष्माकं शुची शुचीनि हव्या हव्यानि हवींषि भवन्तु शुचिभ्यः प्रकाशमानेभ्योयुष्मभ्यं शुचिं शुद्धं अध्वरं यागं हिनोमि अहं प्रेरयामि ऋतसापः ऋतमुदकं स्पृशन्तोमरुतः ऋतेन सत्येनैव सत्यमायन् गच्छंति कीदृशाः शुचिजन्मानः शोभन- जननाः शुचयोदीप्यमानाः पावकाः शोधकाः एवंभूतागच्छंतीत्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४