मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १४

संहिता

प्र बु॒ध्न्या॑ व ईरते॒ महां॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वम् ।
स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषध्वम् ॥

पदपाठः

प्र । बु॒ध्न्या॑ । वः॒ । ई॒र॒ते॒ । महां॑सि । प्र । नामा॑नि । प्र॒ऽय॒ज्य॒वः॒ । ति॒र॒ध्व॒म् ।
स॒ह॒स्रिय॑म् । दम्य॑म् । भा॒गम् । ए॒तम् । गृ॒ह॒ऽमे॒धीय॑म् । म॒रु॒तः॒ । जु॒ष॒ध्व॒म् ॥

सायणभाष्यम्

हेमरुतः वोयुष्मदीयानि बुध्न्यान्यन्तरिक्षेभवानि महांसि तेजांसि प्रेरते प्रकर्षेण गच्छन्ति किंच हे प्रयज्यवः प्रकर्षेण यष्टव्यामरुतोयूयं नामानि पांसून्नमयन्तीति नामान्युदकानि प्रतिरध्वं वर्धयत । हेमरुतोयूयं सहस्रियं सहस्रसंख्याकं दम्यं दमे गृहे भवं गृहमेधीयं गृहमेधिगुणेभ्योयुष्मभ्यं देयं एतं एतादृशं भागं जुषध्वं सेवध्वं एकं भागं सहस्रियमिति कथामाह तथाचश्रूयते-यावदेकादेवताकामयते यावदेकातावदाहुतिः प्रथते नहितदस्ति यत्तावदेवस्यात् यावज्जुहोतोति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४